________________
श्रीमद्भयदेवसूरिपदं सूरिपदेन विभूष्य शासनोद्दीप्तिकरा : इमे श्रीजिनवल्लभसूरयः वि० सं० १९६७ कार्तिक कृष्णद्वादश्यां रजनीचरमया परमेष्ठिमपरावर्तनं कुर्वन्तः चतुर्थदेवलोकं प्राप्ताः ।
पूज्यपादैरेभिः सुक्ष्मार्थसिद्धान्त- विचारसारषडशीति- सार्धशतकाख्यकर्मग्रन्थ - पिण्डविशुद्धि - पौषधविधि - प्रतिक्रमणसामाचारी सङ्घदृक-धर्मशिक्षा - प्रश्रोत्तरशतक-शृङ्गारशतक - नानाप्रकार विचित्रचित्र काव्यसार - शतसं दयस्तुतिस्तोत्रादिमन्या प्रथिता विलोक्यन्तेऽधुनाऽपि । ( अस्य विवरणस्यादावन्ते चैतत्संक्षिप्त चरितस्य बीजं विवरणकर्ता प्रदर्शितम् )
विवरणकर्तारश्वास्य मन्थस्य श्रीजिनपालोपाध्यायपादाः कदा जन्मदीक्षादि प्राप्नुवन्निति सम्यन्न ज्ञायते, परन्तु एतद्विवरण से १२९३ वर्षे कृतमिति एतत्प्रशस्त्रिगतसप्तमश्लोकातू स्पष्टं ज्ञायते तेषां सत्ताकाळः । तथा एतत्कुलककर्तृश्रीजिनवल्लभसूरिपट्टधर शिष्य श्रीजिनदत्तसूरिस्तत्पट्टधरशिष्य श्रीजिनचन्द्रसूरिस्तत्पट्टधरशिष्य श्रीजिनपतिसुरेः शिष्यः श्रीजिनपालोपाध्यायः श्रीमजिनेश्वरसूरे: श्रीजिनचन्द्रसूरिपट्टधरस्य वाक्यादिदं विवरणं चकारेति स्पष्टमेतत्प्रशस्तो । किं चास्य कृतिक्रमोऽपभ्रंशकाव्यत्रयी भूमिकायामित्थं लिखित:
वि० सं० १२६२ वर्षे षट्स्थानकवृत्तिः । सनत्कुमारचक्रिचरितं सटीक महाकाव्यम् ।
वि० [सं० १२९२ वर्षे उपदेशरसायनविकरणम् । वि० सं० १२९३ वर्षे द्वादशकुलकविवरणम् । वि० सं० १२९३ वर्षे पञ्जलिङ्गी विवरणटिप्पनम् । वि० सं० १२९४ वर्षे चर्चरीविवरणम् । अज्ञातरचनासमयं स्वतविचारभाष्यादि ।