________________
९२ ] दि० जैनव्रतोखापन संग्रह ।
गोमत्रसेवनं धत्ते नेवं गोच्छवन्दनं । तत्कर्मरहितो योगी पूजये तं शुभार्चनैः ।। ॐ ह्रीं गोपुच्छमूत्रसेवारहितदर्शन० जलादिकं ॥१६॥ अनन्तभवसन्तानं रत्नपाषाणसेवनं । तस्माद्यो विरतो योगी पूजये तं शुभार्चनेः ।। ॐ ह्रीं रत्नपाषाणसेवारहितदर्शन० जलादिकं ॥१७॥ मुक्तो गजादिसेवातो धर्मध्यानेषू तत्परः । रागद्वषविनिमुक्तः पूजये तं शुभार्चनैः ॥ ॐ ह्रीं गजादिवाहनसेवारहितदर्शन० जलादिकं ॥१८॥ क्षमादयातपोयुक्तः पृथ्वीसेवा पराडूमुखः । सावद्यरहितो धीरः पूजये तं शुभार्चनैः । ॐ ह्रीं भूमिसेवारहितदर्शन० जलादिकं ।।१९।। तरुसेवादिपापेभ्यो विरतो यतिपुङ्गवः । स विवेको विचारज्ञः पूजये तशुभार्चनैः ।। ॐ ह्रीं वृक्षसेवारहितदर्शन० जलादिकं ॥२०॥ शुद्धज्ञानरतो शांतः कुशास्त्रमतिदूरगः । तत्वातत्वं विजानाति पूजये तं शुभार्चनैः ॥ ॐ ह्रीं कुशास्त्रसेवारहितदर्शन० जलादिकं ।।२१।। आयुधानं महापूजावन्दनाविरतो मुनिः । कलाविज्ञानपर्णो यः पूजये तं शुभार्चनैः ॥ ॐ ह्रीं आयुवपूजारहितदर्शन० जलादिकं ॥२२॥ .