________________
[ ९१
दि० जैन व्रतोद्यापन संग्रह |
सूर्यचन्द्रादिनां पूजा न करोति कदाचन । गंगासिन्धुजलैर्दिव्योः पूजये तं शुभार्चनैः ॥
ॐ ह्रीं सूर्यार्घदान मिथ्यात्वरहितदर्शन विशुद्धये जलादिकं ||९|| नवग्रहाणां दोनेभ्यो विरतो मुनिसत्तमः । त्रिवर्णशुद्धो मोक्षार्थी पूजये तं शुभार्चनैः ॥ ॐ ह्रीं नवग्रहदान रहितदर्शनविशुद्धये जलादिकं ॥१०॥ संक्रांतिसमये दानं मिथ्यादृष्टिप्रकल्पित ं । तस्माद्यो रहितः साधुः पूजये त शुभार्चनैः ॥ ॐ ह्रीं संक्रांतिदानरहितदर्शनविशुद्धये जलादिकं ॥ ११ ॥ नीचकर्म प्रहार संध्यावन्दन मुच्चति । विश्वतत्वप्रकाशाकं पूजये त शुभार्चनैः ॥ ॐ ह्रीं गायत्री मन्त्रजाप्यरहितायदर्शन जलादिकं ॥ १२ ॥ ध्यानाध्ययन होमेषु कर्मकाष्टाहुति क्षिपेत् । हिंसा होमविनिर्मुक्तः पूजये तं शुभार्चनैः ॥ ॐ ह्रीं अग्निसत्काररहितदर्शन० जलादिकं ||१३|| करोति गृहपूजां न दुष्टवाक्याद्विशेषतः तत्कर्मरहितः साधुः पूजये तं शुभाचनैः ॥ ॐ ह्रीं गृहपूजा रहितदर्शन० जलादिकं ॥१४॥ वपुपूजादि मिथ्यात्वाद्विरतो यो मुनीश्वरः । तस्वार्थागमचेता यः पूजये तं शुभार्चनैः ॥ ॐ ह्रीं शरीरपूजा रहितदर्शम० जलादिक ॥१५॥