________________
दि. जैन व्रतोद्यापम संग्रह । गीतनर्तमहावाद्यश्चन्दोपकविराजितैः ।। छत्रचामरसंकीण रंगविचित्रितैः ॥ १० ॥ सुशब्दार्थभरैस्तोत्रैः पंतितैश्च विशारदः । पुष्पचन्दनकर्पूरैः केशरैश्चाक्षतैः फलैः ॥ ११ ॥ नालिकेरलवंगादिसामग्री प्रथम रचेत् । मंडलं विशदं कार्यं चतुष्कोणं स्फुरत्प्रभं ॥ १२ ॥ रम्यौर्मणिमणैश्चूर्णैः सुकोष्टं चिंतितार्थदं । संख्यायं दिव्यरूपं च रस बाण कलाधरैःx ॥१२॥ विधानं परमं कार्यं मन्त्रोचारणपूजितः । तांबूलैस्तिकैर्वस्त्रैः कुर्यात्संघस्य चर्चनं ॥ १४ ॥ अनेकविधिना सारं तीर्थेशपदकारणं । व्रतं संपाद्यते भव्यौः प्रीणितं परमेश्वर ॥ १५ ॥
इति पिठिका विधान।
अथ पजा। अनन्तसौख्यामृतकूपरूपंजिनेन्द्रसेव्य परमं पवित्र । कर्मारिनाशाय हि वज्रतुल्यं संस्थापये षोडशकारण सत् ॥
ॐ ह्रीं षोडशकारणानि अत्रावतर २ संवौषट् । अत्र तिष्ठ तिष्ठ ठः ठः स्थापनं । अत्र मम सन्निहितो भव भव वषट् ।
अमलक्षीरसमुद्रसंभव वारिपूरितधारया । कनककुम्भसमाश्रिताबुत पापतापनिवाया ॥ x २५६ कोठा ।