________________
८४. ]
दि० जैन व्रतोद्यापन संग्रह |
धर्माधर्म प्रकाशन धीरं, मोहमहारिपु भंजन वीरं । दुःखदावानल शमन सुनीरं, दर्शित जनता भवजल तीर |५| महीचन्द्रायतिराजैर्महितं मेरुचन्द्र स्तुतिवाक्यैः सहितं । पापतिमिरनाशनर विभूर, जयसागर वांछित सुखपूर ॥६॥ घत्ता - इति वरजयमाला, ये पठन्ति त्रिशुद्धया । रविव्रत सुखकारं कुर्वते ये नराश्व । दिविजखगनरा वा ते लभते नितान्तं । सकलसुखसमाजं मोक्षसौख्यास्पद च ॥ ७ ॥
ॐ ह्रीं पार्श्वनाथाय धरणेन्द्रपद्मावतीसहिताय दुष्टग्रहशोकसर्वज्वर रोगाल्पमृत्युविनाशनाय पूर्णा निर्वपामीति स्वाहा । शांति पुष्टि चतुष्टि च, कल्याणं कमलाकर । पार्श्वनाथप्रसादेन, देयात् पद्मावती च सा ॥
|| इत्याशीर्वादः ||
इति भट्टारक श्री महीचन्द्र शिष्य ब्रह्मश्री जयसागर विरचितं सूर्यव्रतोद्यापनं सम्पूर्णम् ।