________________
4.] दि० जैनव्रतोद्यापन संग्रह ।
सम्वत्सरेऽष्टमे प्राप्ते पञ्चमे रविवासरे । रूक्षाहारस्तु कर्तव्यः सूर्याव्रत प्रसिद्धये ॥ ५॥
ॐ ह्रीं श्री सूर्यव्रताष्टमे वर्षे पंचमरूक्षाहारप्रोषधोद्योतनाय अर्घ नि० स्वाहा।
वर्षाष्टमे हि संजाते षष्ठे मार्तण्डवासरे ।
ततैलं हि संत्याज्यं सूर्याव्रतप्रसिद्धये ॥६॥ ॐ ह्रीं श्री सूर्यव्रताष्टमे वर्षे षष्ठमरूक्षाहारप्रोषधोद्योतनायय अर्घ नि० स्वाहा ।
सप्तमे सूर्यवारे च वसु संवत्सरे गते ।। रूक्षाहारं च कर्तव्य प्राशुकैः व्रतधारिकः ।। ७ ॥
ॐ ह्रीं श्री सूर्यव्रताष्टमे वर्षे सप्तमरूक्षाहारप्रोषधोद्योतनाय अर्घ नि० ।
अष्टमे हायने प्राप्ते रविवारेऽष्टमे पुनः।
रूक्षाहारं हि कर्तव्य सूर्यव्रतप्रसिद्धये ॥ ८ ॥ ॐ ह्रीं श्री सूर्याव्रताष्टमे वर्षे अष्टमरूक्षाहारप्रोषधोद्योतनाय अर्घ नि० स्वाहा ।
अष्टमेण्टे समायाते नवमे रविवासरे । रूक्षाहारस्तु कर्तव्यः रविव्रतविशुद्धये ॥ ९ ॥
ॐ ह्रीं श्री सूर्यव्रताष्टमे वर्षे नवमरूक्षाहारप्रोषधोद्योतनाय अर्घ नि० स्वाहा ।
अष्ठमे वर्षमध्ये च रूक्षाहारस्तु कारयेत् । घततैलं च संत्याज्यं सूर्यव्रतविधायकैः ।। १० ।।
ॐ ह्रीं श्री सूर्यव्रताष्टमे वर्षे रूक्षाहारमोषधोद्योतनाय पूर्णाघ नि० स्वाहा ।