________________
दि० जैन व्रतोद्यापन संग्रह |
चतुर्थे रविवारे च वर्षे सप्तमके तथा । गोरसं नैव भोक्तव्यं सूर्यव्रतविधायकैः ॥ ४॥ ॐ ह्रीं श्री सूर्यव्रतसप्तमवर्षे चतुर्थनिगोरसभुक्तिप्रोषधोद्योतनाय अर्घं नि० स्वाहा ।
सप्तमेष्टे समायाते पंचमे रविवासरे । दुग्ध दधि घृतं नैव भोक्तव्य' व्रतधारिणा ॥ ५ ॥
ॐ ह्रीं श्री सूर्यव्रतसप्तमवर्षे पंचम निगोरस भुक्ति प्रोषधोद्योतनाय अघं नि० स्वाहा |
षष्ठे हि रविवारे च वर्षे सप्तमके ध्रुवं । गोरसं सर्वथा त्याज्यं सूर्यव्रतविधायकैः ॥ ६॥ ॐ ह्रीं श्री सूर्यव्रत सप्तमवर्षे निगोरसभुक्ति प्रोषघोद्योतनाय अर्घं नि० स्वाहा ।
सप्तमे वर्षे संप्राप्ते सप्तमे रविवासरे । गोरसं नैव भोक्तव्य' सूर्यव्रतविधायकैः ।
७८
ॐ ह्रीं श्री सूर्यव्रतसप्तमवर्षे सप्तमनिगोरसभुक्ति प्रोषधोद्योतनाय अर्घ नि० स्वाहा :
अष्टमे रविवारे हि सप्तमे वत्सरे मुदा । दधिदुग्धघृत' त्याज्यं सूर्यव्रतविशुद्धये ॥ ८ ॥
ॐ ह्रीं श्री सूर्यव्रतसप्तमवर्षे अष्टमनिगोरस भुक्ति प्रोषधोद्योतनाय नि० स्वाहा ।
संजाते सप्तमे वर्षे नवमे रविवासरे ।
गोरसं सर्वथा त्याज्यं सूर्यव्रतविशुद्धये ॥ ९