________________
दि. जैन व्रतोद्यापन संग्रह । [७७ ॐ ह्रीं श्री सूर्यव्रतषष्ठमे वर्षे अष्टमैकान्नभुक्तिप्रोषधोद्योतनाय अर्घ नि० स्वाहा ।
षष्ठे संवत्सरे जाते नवमे सूर्यवासरे । एकान्नभुक्तिः संप्रोक्ता सूर्यव्रतप्रकाशकैः ॥ ९ ॥
ॐ ह्रीं श्री सूर्यव्रतषष्ठमेवर्षे नवमैकान्नभुक्तिमोषधोद्योतनाय अर्घ नि० स्वाहा ।
षष्ठे वर्षे प्रकर्तव्या नव चैकान्न भक्तयः। आषाढमासमारम्भ सूर्ये सूर्ये च वासरे ॥ १० ॥ ॐ ह्रीं श्री सूर्यव्रतषष्ठमे वर्षे एकान्नभुक्तिप्रोषधोद्योतनाय पूर्णाघ निर्वपामीति स्वाहा ।
(७) आषाढमासे शुभशक्लपक्षे मार्तण्डबारे खलु सप्तमाब्दे । निगोरसं भोजनमेकवारम् कर्तव्यमादित्यव्रताय भव्यौः ।
ॐ ह्रीं श्री सूर्यव्रत सप्तमवर्षे प्रथमनिगोरसभुक्तिप्रोषधोद्योतनाय अर्घ नि० स्वाहा ।
सप्तमेष्टे समायाते द्वितीये रविवासरे।। गोरसं नैव भोक्तव्य दधिदुग्धघतादिकं ॥२॥
ॐ ह्रीं श्री सूर्यव्रत सप्तमवर्षे द्वितीयनिगोरसभुक्तिप्रोषधोद्योतनाय अर्घ नि० स्वाहा ।
सप्तमे वत्सरे जाते तृतीये सूर्यवासरे। गोरसेन विना सर्व भोक्तव्य व्रतधारिणा ॥३॥
ॐ ह्रीं श्री सूर्यव्रत सप्तमवर्षे तृतीयनिगोरसभुक्तिप्रोषधोद्योतनाय अर्घ नि० स्वाहा ।