________________
दि० जैन व्रतोद्यापन संग्रह ।
[ ६७
सुवर्णभाजनस्थितैरमारमारमाभिधः।।
ज्ञानभूषणायक महामुनिगवीक्षते ।। ९ ॥ ॐ ह्रीं श्री चिन्तामणिपार्श्वनाथाय अर्घ निर्वपामोति स्वाहा ।
• .m-namastepROpmmmwoman..
अथ प्रत्येक पूजा ।*
(१) आषाढशुक्लपक्षस्य प्रथमो रविवासरः ।
तदिने प्रोषधं कुर्यात् सूर्यव्रतप्रसिद्धये ॥ ॐ ह्रीं श्री सूर्यव्रतप्रथमोपवासप्रोषधोद्योतनाय श्रीजिनेन्द्राय जल वंदनाक्षतपुष्पचरुदीपधूपफलाघं निनपामीति स्वाहा ।
द्वितीयादित्यवारे च प्रोषधं यः तपस्यति ।
पूर्वसूरिसदाचारी सूर्यव्रतप्रसिद्धये । ॐ ह्रीं श्री सूर्यव्रतद्वितीयोपवासप्रोषधोद्योतनाय जलादिकं नि० ।
तृतीयादित्यवारे च प्रोषधं हि करोति यः ।
तस्य स्यात् सर्वसिद्धिश्च सूर्यव्रतप्रसिद्धये ॥ ॐ ह्रीं श्री सूर्यव्रततृतोयोपवासप्रोषधोद्योतनाय अर्घ नि० ।
त्रिशुद्धया प्रोषधं कुयात् चतुर्थे रविवासरे ।
पुण्येन तेन संसिद्धिः सूर्यव्रतप्रसिद्धये ॥ ॐ ह्रीं श्री सूर्यव्रत चतुर्थोपवासप्रोषधोद्योतनाय अर्घ नि० स्वाहा ।
* श्रीफल साथिया पर चढाववां ।