________________
दि. जैन व्रतोद्यापन संग्रह।
अथाष्टकम्। क्षीरहीरगौरनीरपूरवारिधारया। मन्दकुन्दचन्दनादिसौरभेण सारया ॥ चिन्ततार्थकामधेनुकल्पवृक्षदायकम् ।
पूजयाम्यचिन्त्यतार्थदं हि पार्श्वनायकं ॥ १॥ ॐ ह्रीं श्री चिंतामणिपार्श्वनाथाय जलं निर्वपामीति स्वाहा ।
अर्कतर्कवर्जनैरनर्धचन्दनद्रवः ।। कुकुमादिमिश्रितैरनल्पषट्पदाश्रितैः । चिन्तितार्थकामधेनुकल्पवृक्षदायकम् ॥
पूजयाम्य० ॥२॥ ॐ ह्रीं श्री चिंतामणिपार्श्वनाथाय चंदनं निर्वपामीति स्वाहा ।
औषधेन सिन्धुफेनहारभासमुज्वलैरक्षितैः सुलक्षितैरजोतखण्डवर्जितः ॥ चिन्तितार्थकामधेनुकल्पवृक्षदायकम् ।
पूजयाम्य० ॥३॥ ॐ ह्रीं श्री चितामणिपार्श्वनाथाय अक्षतं निवपामीति स्वाहा ।
पारिजातवारिसूतकुन्दहेमकेतकैः । मालतीसुचंपकादिसारपुष्पमालया ॥ चिन्तितार्थकामधेनुकल्पवृक्षदायकम् ।
पूजयाम्य० ॥४॥ ॐ ह्रीं श्री चिंतामणिपार्श्वनाथाय पुष्पं निर्वपामीति स्वाहा ।