________________
अथ रविवारव्रत उद्यापनम् । नत्वा श्रीमज्जिनाधीश सर्वज्ञं सुखदायकम् । वक्ष्ये सूर्यव्रतं यस्य पूजासौख्यप्रदायिनी ॥१॥ आदी गंधकूटीपूजा ततस्नपनमाचरेत् । पश्चात् कोष्टगता पूजा कर्तव्या विबुधोत्तमैः ॥ २ ॥ पाश्वनाथ जिनेन्द्रस्य प्रतिमा परमां शुभाम् । आह्वाननादिविधिना स्थापयेत् स्वस्तिकोपरि ।। ३ ॥ पश्चात पूजा प्रकर्तव्या विधिवदष्टाधा मुदा ।
उत्तमा सर्वसामग्री मेलयित्वा त्रिशुद्धितः ॥४॥ इति जिनपूजनप्रतिज्ञानाय जिनप्रतिमाग्रे परिपुष्पांजलि क्षिपेत् ।
'अथ स्थापना । स्वामिन संवौषट कृताहाननस्य, दिष्टं तेनोटङ्कितस्थापनस्य । स्वामीन निर्नेतु वषट्कारजागृत सान्निध्यस्य प्रारभेयाष्टसिद्धिम् ॐ ह्रीं श्री चिंतामणिपार्श्वनाथ अत्र अवतर २ संवौषट स्वाहा । ॐ ह्रीं अत्र तिष्ठ तिष्ठः ठः ठः स्वाहा (स्थापन)
अत्र मम सन्निहितो भव२ वषट् सन्निधिकरणम् ।। ॐ ह्रीं परब्रह्मणे नमो नमः ॥ ॐ ह्रीं स्वस्तिर, जीव२, नन्दर, वर्धस्वर, विजयस्वर, अनुसाधि२, पुनीहि२, पुण्याहं२, प्रियंताम २, मंगलं२, पुष्पांजलिं क्षिपेत् ।