________________
५६ ]
दि० जैन व्रतोद्यापन संग्रह । सर्वेष्वपि च होमेषु बीजानां सेचने तथा । पुण्याहवाचना पुण्या भण्या संकल्पपूर्विका ॥ १० ॥
इति श्री पुण्याहवाचनम् ।
अथ मंगलाष्टक। श्रीमन्नम्रसुरासुरेन्द्रमुकुटप्रद्योतरत्नप्रभा । भास्वत्पादनखेन्दवः प्रवचनांमोधी व्यवस्थायिनां ॥ ये सर्वे जिनसिद्धसूर्यनुगतास्ते पाठकाः साधव - स्तुत्या योगिजनैश्च पंचगुरवः कुर्वन्त वो मंगलं ॥२॥ सम्यग्दर्शनबोधवृत्तममलं रत्नत्रयं पावनं । मुक्तिश्रीनगराधिपजिनपतेः स्वर्गापवर्गप्रदं ॥ धर्म सूक्तिसूधावचैत्यमखिलं जैनालयं स्वालयं । प्रोक्तं तत्रिविध चतर्विधमिमं कुर्वन्तु वो मंगलं ॥२॥ नामेयादिजिनाधिपास्त्रिभुवने ख्याताश्चतुर्विंशतिः । श्री मंतो भरतेश्वर प्रभृतयो ये चक्रिणो द्वादशाः ।। ये विष्णुप्रतिविष्णुलांगलधराः सप्ताधिका विंशतिः । त्रैलोक्याभयदात्रिषष्ठिपुरुषाः कुर्वन्तु वो मंगले ॥३॥ ये पंचौषधिरिद्धयः श्रुततपोरिद्धिं गताः पंच ये । ये चाष्टांगमहानिमित्तकुशला येऽष्टौ विधाश्चारणः ।। पंचज्ञानधराश्च येऽपि बलिनो ये बुद्धिरिद्धिश्वराः । सप्तैते सकलाश्च ते गणधराः कुर्णतु वो मंगलं ॥४॥