________________
४४ ] दि० जन व्रतोद्यापन संग्रह। भगवंतोऽर्हतः सर्वज्ञाः सर्वदर्शिनः सकलवीर्याः सकलसुखाः त्रिलोकेशाः त्रिलोकेश्वरपूजिताः त्रिलोकनाथाः त्रिलोकमहिताः त्रिलोकप्रद्योतनकराः । ॐ श्रीमद् भगवदर्हत्सर्वज्ञपरमेष्ठिपरमपवित्रशांतिभट्टारकपादपद्मप्रसादात् सद्धर्मश्रीवलायुरारोग्यैश्वर्याभिवृद्धिरस्तु ।
ॐवृषभादयो महतिमहावीरवर्धमानयंताः परमतीर्थकरदेवाश्चतुर्विंशत्यस्तो भगवन्तः सर्वज्ञाः सर्वदशिनः संभिन्नतमस्का वीतरागद्वेषमोहास्त्रिलोकनाथास्त्रिलोकमहितास्त्रिलोकप्रद्योतनकरा जातिजरामरणविप्रमुक्ताः सकलभव्यजनसमूहकमलवनसम्बोधदिनकराः देवाधिदेवाः । अनेकगुणगणशतसहस्त्रालंकृतदिव्यदेहधराः। पंचमहाकल्याणाष्टमहाप्रातिहार्यचतुस्त्रिंशदतिशयविशेषसंप्राप्ताः। इन्द्रचक्रधरबलदेववासुदेवप्रभृतिदिव्यसमानभव्यवर पुण्डरीकपरमपुरुषवरमकुटतटनिबिडनिवद्धमणिगणकर निकरवारिधाराभिपिक्तचारुचरणकमलयुगलाः। स्वशिष्यपरशिष्यवर्ग प्रसीदंतु वः परममांगल्यनामधेयाः सद्धर्मकार्यविहामुत्र च सिद्धाः सिद्धि प्रयच्छंतु नः।
अतीतकालसंजातविविधविबुधनिवहप्रार्थितार्थप्रदानसद्धर्मपारिजातपादपप्रभावोद्भ तसंपत्समेताः । निखिलभुवनकुहरविश्रुतयशोराशिधवलितहरिद्वलयनिलयनिलिंपनितंबि'नीजनमनोवितर्कमानकल्याणपरम्पराः । अनवरतविनमदखिलसुरनरोरगखेचरपतिमुकुटतटताटितमाणिक्यमयूखमालालंकृतक्रमकमलयुगलाः।