________________
३५८ ] दि. जैन व्रतोद्यापन संग्रह ।
शार्दूलविक्रीडितम् । सत्पूजा बलिदान लालितमनः स्फारस्फुरद्वत्सलीभावावेशवशीकृताः कृतधिया मिष्टाश्च पूर्णाहुतिम् ।। विद्यादेव्य इमां प्रतीच्छत जिनज्येष्ठ प्रतिष्ठाज्जसानिष्ठा मुख्यमनोरथान फलवतः कर्तुं यतध्वं मम ॥ ॐ ह्रीं विद्यादि षोडशदेवताभ्यः पूर्णाध्यं निर्व० स्वाहा ।
शालिनी। एवं विद्यादेवता श्वन्दनाद्य
रोहिणाद्याः प्रीणिता मन्त्रयक्तः । विघ्नन्त्योऽर्ह द्यागविघ्नावशेषान् ।
प्रीत्युष्कर्ष तज्जुषां पोषयन्तु ॥ इतीष्ट प्रार्थनाय पुष्पांजलि क्षिपेत् ।
अथ चतुर्विंशति शासनदेवतार्चनम् ।
वसन्ततिलका। संभावयन्ति वृषभादि जिनानपास्य,
तद्वामपार्श्व निहिता वरदीप्तयो याः । चक्रेश्वरीप्रभृतिशासनदेवतास्ता,
द्विादशा दलमुखेषु यजे निवेश्य ॥ चतुर्विशति शासनदेवतासमुदायपद्मपोषु पुष्पांजलिं क्षिपेत् ।
(चौवीस दलका कमल बनाकर उस पर चौवीस शासनदेवताओंकी स्थापना करे ।)