________________
[२९
श्रोमदाशाधरकृतः महाभिषेकः मुक्तिश्रीवनिताकरोदकमिदं पुण्यांकुरोत्पादकं । नागेन्द्रत्रिदशेन्द्रचक्रपदवी राज्याभिषेकोदकम् ॥ सम्यग्ज्ञानचरित्रदर्शनलतासंवृद्धिसंपादकं । कीर्तिश्रीजयसाधकं तब जिन स्नानस्य गन्धोदकं ॥१॥ स्नानस्य गंधोदक। गंधोदकं लेना ।
इति महाभिषेकः । अथ पूजा प्रारभ्यते । तत्र स्वस्ति भंगल विधानं ।
ॐ जय जय जय । नमोस्तु नमोस्तु नमोस्तु । णमो अरहं-- ताणं, णमो सिद्धाणं, णमो आइरीयाणं । णमो उवज्झायाणं, णमो लोये सव्व साहूणं। ॐ ह्रीं अनादिमूलमंत्रेभ्यो नमः । पुष्पांजलि क्षिपेत् । चत्तारि मंगलं-अरहंत मंगलं । सिद्धमंगलं साहूमंगलं । केवबिपण्णत्तो धम्मो मंगलं । चत्तारि लोगुत्तमाअरहंतलोगुत्तमा । सिद्धलोगुत्तमा । साहूलोगुत्तमा । केवलिपण्णतो धम्मोलोगुत्तमा । चत्तारि सरणं पव्वजामि। अरहंत सरणं पव्वज्जामि । सिद्ध सरणं पव्वज्जामि । साहू सरणं पव्वज्जामि। केवलिपण्णत्तो धम्मो सरणं पव्वज्जामि । ॐ नमोऽर्हते स्वाहा ।
पुष्पांजलिं क्षिपेत् । अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा। ध्यायेत्पंचनमस्कारं सर्वपापैः प्रमुच्यते ॥१॥ अपवित्रः पवित्रोवा सर्वावस्थां गतोऽपि वा। यः स्मरेत्परमात्मानं स बाद्याभ्यन्तः शुचिः ॥२॥