________________
- २८ ]
दि० जैन व्रतोद्यापन संग्रह |
अथ पुष्पोद्धारणम् ।
वासंतिकाजातिशिरीषवृन्दै वधूकवृन्दरपि चंपकाद्यैः । पुष्पैरनेकैर लिभिहतायैः श्रीमज्जिनेंद्रांघ्रियुगं यजेऽहं ॥ १ पुष्पोद्धारणम् ॥
अथ गंधोदकस्नपनं । कपू रोल्वणसांद्र चंदनरसप्राचुर्यशुभ्रत्विषा
"
सौरभ्याधिकगंधलुब्धमधुप श्रेणीसमाश्लिष्टया । सद्यः संगतगांगया मुनमहास्रोतो बिलास श्रिया सद्गंधोदकधारया जिनपतेः स्नानं करोमि श्रियै ॥१॥ गंधोदकेभ्रमद्भङ्गसंगीतध्वनिवन्धुरैः ।
अभिषिंचामि सम्यक्त्वरत्नाढ्यविमलप्रभुम् ||२॥
ॐ ह्रीं श्रीं क्लीं ऐं अर्हनमोऽर्हते भगवते श्रीमते प्रक्षोणा शेषदोष कल्मषाय दिव्यतेजोमूर्तयेनमः श्रीशांतिनाथाय शांतिकराय सर्वविघ्नप्रणाशनाय सर्वरोगापमृत्युविनाशनाय सर्वपरकृत क्षुद्रोपद्रव विनाशनाय सर्वक्षामडामर विनाशनाय ॐ ह्रां ह्रीं ह्रौं ह्रः असि आ उ सा पवित्रतर गन्धोदकेन जिनमभिषिचामि । मम सर्वशांति कुरु कुरु । तुष्टि कुरु कुरु । पुष्टि कुरु करु स्वाहा । गंधोदक स्नपन |
स्नानानंतर मर्हतः स्वयमपि स्नानांबुशेषाद्रितो वार्गन्धाक्षतपुष्पदामचरुकैदींपैः सुधूपैः फलैः । कामोद्दाम गजांकुशं जिनपति स्वभ्यर्च्य संस्तौति यः स स्यादारविचंद्र मक्षयसुखः प्रख्यातकीर्तिध्वजः ॥ १ ॥ इति अर्घं, अचर्नाफलम् ।