________________
श्रीमदाशाधरकृतः महाभिषेक: । ९. संस्नापितस्य घृतदुग्धदधिप्रबाहैः
सर्वामिरौषधिभिरहत उज्वलामिः । उद्वर्तितस्य विदधाम्यभिषेकमेवं
कालेयकुमकुरसोत्कटचारुपूरैः ॥ २ ॥ क्षीरभूरुहसंजातत्वकषायजलैरहं । मज्जातमविच्छित्यै मज्जनं विदधे विभोः ॥३॥ ॐ ह्रीं पवित्रतर कषायादकेन जिनमभिषेचयानि स्वाहा । इति सर्वोषधिरस स्नपनं ।
__ अथ चतुष्कोणकुम्भोदकस्नपनं । हृद्योद्वर्तनकल्कचूर्णनिवहैः स्नेहापनोदं तनोः
वर्णाढ्य विविधैः फलैश्च सलिलैः कृत्वाऽवतारक्रियां । संपूर्णैः सकृदुद्ध, तैर्जलधराकारैश्चतुर्भिर्घटैः
रंभ:पूरितदिङ्मुखैरभिषवं कुर्मस्त्रिलोकीपतेः॥१॥ आम्भोभिः सम्भृतैः कुम्भैरंभोधरनिभैः शुभौः । कोणस्थैरभिषिचामि चतुर्भिभुवनप्रभु॥२॥
ॐ ह्रीं पवित्रतरचतुष्कोणकुभोदकेन जिनमभिषेचयामिः स्वाहा । चतुः कलशस्नपनं ।
अथ चन्दनानुलेपनम् । संसिद्धशुद्धया परिहारशुद्धया कर्पूरसंमिश्रितचंदनेन । जिनेंद्रदेवे सुरपुष्पवृष्टि विलेपनं चारु करोमिभक्त्या ॥
चन्दनानुलेपनम् ॥