________________
दि० जैन वढोद्यापन संग्रह |
अपराजितमंत्रोऽयं सर्वविघ्नविनाशनः । मंगलेषु च सर्वेषु प्रथमं मंगलं मतः ॥ ३ ॥ एसो पंचणमोयारो सव्वपावप्पणासणो । मंगलागं च सव्वेसिं पढमं होड़ मंगलं ॥ ४ ॥ अर्हतित्यक्ष बह्मवाचकं परमेष्टिनः । सिद्धचक्रस्य सद्वीजं सर्वतः प्रणम्याम्यहं ।। ५ ॥ कर्माष्टकविनिर्मुक्त मोक्षलक्ष्मीनिकेतनं । सम्यक्त्वादिगुणोपेतं सिद्ध चक्रं नमाम्यहं ॥ ६ ॥ विघ्नोद्याः प्रलयं यांति शाकिनी भूतपन्नगाः । विषं निर्विषतां याति स्तूयमाने जिनेश्वरे ॥ ७ ॥
३० १
पुष्पांजलि क्षिपेत् ।
અથ સકલી કરણુ મ
स्वयंभुवं महादेवं ब्रह्माणं पुरुषोत्तमं । जिनेन्द्र चंद्रमानम्य वक्ष्ये देवार्चनक्रमं ॥ १ ॥ इन्द्रश्चैत्यालयं गत्वा वीक्ष्य यज्ञांगसज्जनम् । यागमंडलपूजार्थं परिकर्माचरेदिदं ॥ २ ॥ स्नानानुस्नानभागंतधौतवस्त्रो रहः स्थितः । कृतेर्यापथ संशुद्धिः पर्यङ्कस्थोऽमृतोक्षितः ॥ ३ ॥ दहनप्लावने कृत्वा दिव्यस्वांगेषु दीक्ष्य च । न्यस्य पञ्चनमस्कारान् प्रयुक्तगुरुमुद्रिकः ॥ ४ ॥