________________
૪ ]
दि० जैन व्रतोद्यापन संग्रह |
शालिनी ।
ज्ञात्वा श्रुत्या नैगमेनानुचिन्त्य, बुद्ध्वा नाम स्थापना द्रव्यभावः ।
ये सेव्यन्ते सर्वदा मुक्तिकामैस्तेभ्योऽद्धयो नौमि लोकोत्तमेभ्यः ॥ ॐ ह्रीं अर्हलोकोत्तमायाध्यं निर्वपामीति स्वाहा । इन्द्रवज्रा ।
नामादिभिर्येऽष्टभिरप्यदुष्ट-
रिष्टाय सन्ति प्रणिधीयमानाः ।
विन्यस्यनो आगमभावतस्तां, लोकोत्तमान् साधु यजेऽत्र सिद्धान् ॥
ॐ ह्रीं सिद्धलोकोत्तमाय जलादिकम निर्ण० स्वाहा ।
स्रग्धरा ।
ध्वस्त क्रोधादिवेगा ऋषि च यति मुनयो ये नवोत्कर्षवन्तो । नानादेशान्नृलोके शिवपथमनिशं साधयतः पुनन्ति । घ घत्रे सनीडीभवदमृतरमा संगमा साधवस्ते, भूता भव्या भवन्तो विधिवदयचिता पान्तु लोकोत्तमा नः ॐ ह्रीं साधुलोकोत्तमाय निर्णपामीति स्वाहा । शार्दूलविक्रीडितम् ।
श्रद्धाय व्यवहार तच्च रुचिधी चर्यात्मरत्नत्रयम्, प्रोद्भूतं परमार्थतत्रयमय स्वात्मस्वरूपं बुधाः । यं युक्त्यागमचक्षुषो विदधते, लोकोत्तमः केवलिप्रज्ञप्तोऽभ्युदयापवर्गफलदः सोऽर्येण धर्मोनघः