________________
दि० जैन व्रतोद्यापन संग्रह । [३३५
मन्त्र- ॐ आं क्रां ह्रीं श्रीं ग्रहा श्चन्द्र सूयोङ्गास्क बुध बृहस्पति शुक्र शनैश्वर राहु केतु सहिता इह जिनपति पुरत स्तिष्ठन्तु मम धनधान्य जयविजय सुख सौभाग्य धति कीर्ति कान्ति शान्ति तुष्टि पुष्टि बुद्धि लक्ष्मी धर्मार्थ कामदाः स्युः स्वाहा ।
(इस मन्त्रका १०८ अथवा २७ वार जाप करना चाहिये ।)
अनुष्टुप ।
जगद्गुरुं नमस्कृत्य श्रुत्वा सद्गुरुभाषितम् । ग्रहशान्ति प्रवक्ष्यामि भव्यानां सुखहेतवे ॥ जन्मलग्ने च राशी च यदा पीडन्ति खेचराः । तदा संपूजयेद्धीमान् खेचरैः सहितान् जिनान् ॥ पुष्पैर्गधै पदीपैः फलनैवेद्यसंयुः । वर्णसदृशदानश्च वस्त्रौश्च दक्षिणान्वितैः ॥ पद्मप्रभश्च मार्तण्ड श्चन्द्र श्चन्द्र प्रभश्च सः। भूसुतो वासुपूज्यश्च बुधोऽप्यष्टजिनेश्वरः ।। विमलानन्तधर्माराः शान्तिः कुन्थुन मिस्तथा । वर्धमानो, जिनेन्द्राणां पादपद्म बुधो नमेत् ॥ ऋषभाजितसुपार्वा श्वाभिनन्दनशीतलौ । सुमतिः शंभवः स्वामी श्रेयसच बृहस्पतिः ॥