________________
-३३४ ]
दि० जैन व्रतोद्यापन संग्रह |
नीलमहोत्पलविश्रुततापं,
वासरमणिसुतमुद्धतकोपम् ।
गर्वित जनताविहित विनाशं,
तं मन्द वन्दे सविकाशम् ॥
राहुमहाग्रहतपन विदारम्,
अर्द्धसुकाय महामतिसारम् ॥
सैंहिकेयमतिकल्पितमानम्,
कज्जलविग्रह कज्जलधानम् ।
कुष्णमहोन्नत धूम विकाशं,
तारापति कृतदेह विनाशं ॥
रौद्र विपूर्णित रौद्रविनोदं,
केतुमहाग्रह संघृतमोदं ॥ मालिनीच्छन्दः ।
इति शुभ जयमालां यो विधत्ते सुकण्ठे, दिनमपि रजनीं वा सर्वकालं पठेद्यः । व्रजति स जनमुख्यः पुत्रवाञ्छां सुकीर्ति, जिनजलधिसुपूज्यः पण्डिताचार्यवर्यः ॥
ॐ आं क्रां ह्रीं सूर्य चन्द्र मंगल बुध गुरु शुक्र शनि राहु केतु महाग्रहेभ्यः सर्वशान्तिप्रदमर्घ्यं समर्पयामीति स्वाहा ।