________________
-
दि० जैन व्रतोद्यापन संग्रह। जय भक्त्य वतं सकलं, तव देव मतं समन्तभद्रं सकलम् ॥
वसन्ततिलका । श्रीवर्धमान मकलङ्क मनिन्द्यवन्ध
पादारविन्दयुगलं प्रणिपत्य मूर्ना । भव्यैकलोकनयनं परिपालयन्तं स्याद्वादवतेपरिणामि समन्तभद्रम् ॥
वसन्ततिलका। ये संस्तुता विविधभक्ति समेतभक्त
रिन्द्रादिभि विनतमौलिमणिप्रभाभिः । उद्योतितांघ्रियुगलाः सकलाववोधा
स्ते नो दिसन्तु विमलां कमलां जिनेन्द्राः । ___ इति स्तोत्राय॑म् ।
अथ यक्ष पूजा।
उपजातिः । सुधर्म चक्राङ्कित चारुहस्तकं
मातङ्गयक्षं द्विभुजं वरोत्करम् । भी वधमानस्य समातुलिङ्गक
समुग्दवर्ण जिनवाहन यजे ॥ * आं क्रां ह्रीं मातङ्गयक्ष ! अत्रावतरावतरेत्याह्वानम् , स्थापनम् , सन्निधिकरणम् ।