________________
श्रीमदाशाधरंकृत: महाभिषेक : [२५ चम॑न्यस्य समीक्षितेति विनतदृग्वीथि शंकाकृता । कुर्मः शर्म समृद्धये भगवतः स्नानं पयोधारया ॥२॥ ॐ ह्रीं पवित्रतरक्षीरेण जिनमभिषेचयामि स्वाहा। क्षीरस्नपनं । सलिलघनसारसदकप्रसवहविर्दीपधूपफलनिवहैः । नमदमरमौलिमालालालितपदकमलयुगलमहतं ॥३॥
अघं० ।
अथ दध्यभिषेकः । शुक्लध्यानमिदं समृद्धिमथवा तस्यैव भतुर्यशो
राशीभूतमितं स्वभावविशद वाग्देवतायाः स्मितं । आहो श्वेतसुपुष्पवृष्टिरियमित्याकारमातन्वता
दध्नैनं हिमखंडपांडुररुषा संस्नापयामो जिनं ।।१।। लोकत्रयपतेः कीर्तिमूर्तिसाम्यादिव स्वयं ।
संलब्धस्तब्धभावेन दध्ना मज्जनमोरभे ॥२॥ ॐ ह्रीं पवित्रतरदना जिनमभिषेचयामि स्वाहा । दधिस्नपनम् । सलिलमलयजसदक कुसुमसान्नायप्रदीपधूपफलैः । तबक शांतिधाराद्यप्त ? मंगलद्रव्यैराराध यामि ॥३॥
अर्घ० ।
अथ कल्कचूर्णोद्वर्तनम् । पिष्टैश्च कल्कचूर्णैश्च गंधद्रव्यसमुद्भः। - जिनांगं संगताज्यायैः स्नेहपूतं करोम्यहं ॥१॥