________________
२४] दि० जैन व्रतोद्यापन संग्रह।
प्राणिनां प्रीणनं कत्तु दौरिक्षुरसैमुदा। सौवर्णकलशैः पूर्णैः स्नापयेऽहं निरंजनं ॥२॥ ॐ ह्रीं पवित्रतरेक्षुरसेन जिनमभिषेचयामि स्वाहा ।
॥ इक्षुरसस्नपनम् ।। शीतोदकमजुलगंधलेपैः सत्रांडुलौः पुष्पवरैश्व हव्योः । दीपैश्च धूरुचिरैः फलौौरंचामि भक्त्या जिननाथमेनं ॥
अर्घ ॥ ३॥
अथ घृताभिषेकः। दंडीभूततडिद्गुणप्रगुणया हेमाद्रिवस्निन्धया ।
चञ्चच्चम्पकमालिकाचरया गोरोचनापिंगया ॥ हेमाद्रिस्थलसूक्ष्मरेणविलसद्वातूलिकालीलया । - द्राधीयोघृतधारया जिनपतेः स्नानं करोम्यादरात् ।। कनकनकसंजातपालिकोरुचिरत्विपा।
प्राज्येनाज्येन निर्वाणराज्यार्थ स्नापयाम्यहं ॥२॥ ॐ ह्रीं पवित्रतरघृतेन जिनमभिषेचयामि स्वाहा । घृतस्नपनं । अंचामि सलिलमलयजतंडुलपुष्पान्नदीपधूप फलनिवहैः । नमदमरमौलिमालालालितपदकमलयुगलमहतं ॥३॥
अर्घः।
अथ क्षीराभिषेकः । माला तीर्थकृतः स्वयंवरविधौ क्षिप्ताऽपवर्गश्रिया। तस्येयं सुभगस्य हारलतिका प्रेम्णा तया प्रेषिता ॥