________________
दि० जैन व्रतोद्यापन संग्रह । [३११
शार्दूलविक्रीडितम् । विद्वांसः कृतकृत्य कर्णिकदलापीताः सुपीतध्वजाः सिंहस्था वरदा बुध प्रियमया मूर्त्या च सौम्यग्रहाः । आत्रेयान्वय शुद्धबुद्धि परमानन्द प्रसन्नात्मकाः सौम्यकादश वर्गलग्न फलदाः कुर्वन्तु ते मङ्गलम् ॥
इत्याशिर्वादः। पुष्पांजलि क्षिपेत् ।
अथ गुरुग्रह पजा। श्रीमत्कुण्ड पुराधिनाथ विलसत्सिद्धार्थ भूवल्लभाप्रेमार्थप्रियकारिणी प्रियसुतः संप्रााते सन्मतिः । पञ्चास्योन्नतकेतनः कनकरुग्मार्तण्डसिद्धादिभिर्माणिक्याभरणादिरजितपदप्रोत्पुल्लपङ्क रुहः ॥
ॐ ह्रीं नमो वर्धमानजिनेन्द्र ! अत्रावतरावतर ! अत्र तिष्ठ तिष्ठ ठः ठः । अत्र मम सन्निहितो भव भव वषट् ॐ ह्रीं वर्धमान जिनेन्द्राय जलमित्यादिकमय॑म् । यस्यार्थ० । शांतिधारा । पुष्पांजलिः । . अथ स्तोत्रम्।
आर्यागीतः । कीर्त्याभुवि भासितया,.
वीर त्वं गुणसमुच्छ्या भासितया ।