________________
दि. जैन व्रतोबापन संग्रह । यः सर्वलोके परमेष्ठिताया,
पदं बभूवाछुतकर्मतेजाः । अनन्तधामाक्षर विश्वचक्षुः,
समस्तदुःखक्षयशासनश्च ॥ स चन्द्रमा भव्य कुमुद्वतीनां,
विपन्नदोषाधकलङ्कलेपः । व्याकोशवान्यायमयूखजालः,
पूयात्पवित्रो भगवान्मनो मे ॥ (इति स्तोत्रं पठित्वा चन्द्रप्रभजिनेन्द्राययं निर्वपेत् ।।
अथ यक्ष पजा।
उपजातिः । मालाक्षसूत्रोरुकुठारधारणा
त्प्रशस्त हस्त शतमाल्य कोमलम् । सुसप्तभङ्गीकृत विश्वरूपिणं
सुचन्द्रनाथस्य यजे त्रिलोचनम ॥ ॐ आं क्रों ह्रीं श्यामवर्ण विजयक्ष ! अत्रागच्छागच्छ, अत्र तिष्ठ२ ठः ठः । अत्र मम सन्निहितो भव भव वषट् ।
ॐ ह्रीं विजययक्षाय स्वाहा-इत्यादयः १४ वलयः । इदमध्यमित्यादिकमय॑म् ।
यस्यार्थ० । शान्तिधारा । पुष्पांजलि ।