________________
३०० ] दि. जैन व्रतोद्यापन संग्रह । अथ चन्द्रप्रम जिन पजा।
आर्यागीतिच्छन्दः । चन्द्रपुराम्बुधिचन्द्र, चन्द्राङ्क चन्द्रकान्तकीर्तिसंकाशम् । चन्द्रप्रभजिनमर्चत, चन्द्रन्दुस्फारकीर्तिकान्ता कान्तम् ।।
ॐ ह्रीं अहँ नमोः। चन्द्रप्रभजिन ! अत्रावतरावतर । अत्र तिष्ठ तिष्ठः ठः ठः । अत्र मम सन्निहितो भव२ वषट, । ॐ ह्रीं चन्द्रप्रभजिनेन्द्राय जलं गन्धमित्यादिकमय॑म् ।
अथ स्तोत्रम्।
उपजातिः । चन्द्रप्रभं चन्द्रमरीचि गौरं,
चन्द्र द्वितीयं जगतीव कान्तम् । वन्देऽभिवन्द्यं महतामृषीन्द्र,
जिनं जितस्वान्त कषायबन्धम् ।। यस्याङ्गलक्ष्मीपरिवेष भिन्नम्,
तमस्तमोरे रिव रश्मिभिन्नम् ॥ ननाश बाह्य बहु मानसं च,
ध्यान प्रदीपातिशयेन भिन्नम् ॥ स्वपक्ष सौस्थित्वमदावलिप्ता,
वाक्सिंह नादेविमदा बभूवुः । प्रवादिनो यस्य मदागण्डा,
गजायथा केशरिणो निनादः ।