________________
दि० जैन व्रतोद्यापन संग्रह । [२७३ ॐ ह्रीं श्रीनन्दोश्वरद्वोपे० फलं ॥८॥ इत्थं नन्दीश्वराख्ये वरशिवसुखजे पर्वणींद्रादि लोके । संस्तुत्याष्टो दिनानि प्रवरगुणयुतं भव्यलोका यजन्तः । ये विद्यानन्दिसू रिप्रणतपदयुगं श्रीजिनानां सदर्चा । श्री भत्या नागसौख्यं निरूपममनघं यांतु मोक्षाय सौख्यं ।। ॐ ह्रीं नन्दीश्वरद्वीपे० अर्घ० ॥९॥
अथ प्रत्येक पजा ।
श्रीमत्पश्चिम दिक्देशे बाह्यांजनो गिरिर्मतः । तत्रस्थं च गतद्वेषं चायेऽहं तद्गुणाप्तये ॥ १ ॥
ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिग्स्थितांजनगिरौ श्री जिनाय अष्टान्हिकव्रतोद्योतनाय जलादिकं अर्यं ॥१॥
पश्चिमायां दिशायां च नाम्ना दधिमुखोगिरिः। तत्रस्थं च गतद्वेषं चायेऽहं तद्गुणाप्तये ॥२॥
ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिस्थित प्रथमदधिमुखगिरी श्री जिनाय० अर्धं ॥२॥
वरुणश्रितदिग्भागे द्वितीयो यो दधिमुखः ।। तत्र स्थितं जिनाधीश चायेऽहं तद्गुणाप्तये ॥३॥
ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिस्थित द्वितीयदधिमुखगिरी श्री जिनाय० अघं ॥३॥