________________
दि० जैन व्रतोद्यापन संग्रह ।
[ २५९
ॐ ह्रीं नन्दीश्वरद्वीपे पूर्वदिग्स्थितदधिमुखगिरौ श्रीजिनाय० जलादिकं ॥३॥
श्रीपूर्वस्यां दिशायां च तृतीयो यो दधिमुखः ।
तत्रस्थं जिनचैत्यं च चाये पापप्रशांतये ॥४॥ ॐ ह्रीं नन्दीश्वरद्वीपे पूर्वदिग्स्थित तृतीयदधिमुखगिरौ श्री जिनाय० जलादिकं ॥४॥
तत्र प्राचीदिशायां च चतुर्थो यो दधिमुखः । तत्राश्रितं जिनंचैत्यं पूजयेऽहं सुखाप्तये ||५|| ॐ ह्रीं नन्दोश्वरद्वीपे पूर्वदिग्स्थित चतुर्थदधिमुखगिरी श्री जिनाय० जलादिकं अर्धं ॥५॥
श्रीमदिन्द्रस्य संबंधिदिशायां यो रतिकरः । तत्रस्थं श्रीजिनाधीशं पूजयेऽहं सुखाप्तये ॥ ६॥ ॐ ह्रीं नन्दीश्वरद्वीपे पूर्वदिग्स्थित प्रथमरतिकरगिरी श्री जिनाय० अ० ॥ ६ ॥
त्रिदशेन्द्रस्य संबंधि दिशायां यो रतिकरः ।
तत्रस्थं श्री जिनाधीशं पूजयेऽहम् सुखप्रदम् ||७||
ॐ ह्रीं नन्दीश्वरद्वीपे पूर्वदिग्स्थित द्वितीय रतिकर गिरौ श्री जिनाय अर्घं ॥७॥
O
श्री देवेन्द्रस्य संबंधो दिग्भागे यो रतिकरः ।
तत्रस्थं जिनबिम्बम् च पूजयेऽहम् सुखाप्तये ||८||
ॐ ह्रीं नन्दीश्वरद्वीपे पूर्वदिग्स्थित तृतीयरतिकर गिरौ श्री जिनाय ० अ० ॥८॥