________________
दि० जन प्रतोद्यापन संग्रह ।
[२५३
सत्कांतिनिर्जितसमुज्वलचन्द्रमूर्तिः, भट्टारको विजयकीर्तिरसौ प्रजीयात् ॥३।। तदीयांङ्गियुग्मांबुजाधारभाजा, कृतं भक्तितो वर्णिनारायणेन । अनन्तवतोद्योतनं पूजकानां,
सदानंदचन्द्रोदयं तत्करोतु ॥४॥ सूर्यपूर्या (सूरत) मनंताख्य व्रतस्योद्यापनं मया । नारायणेन भव्यानां कृतं सबोध हेतवे ॥
॥ इति श्री अनंतव्रतस्योद्यापनं समाप्तम् ॥
श्री अष्टाह्निका व्रतोद्यापनम् । प्रणम्य श्रीजिनाधीशं सर्वज्ञ सर्वपूजितम् । वीतरागं जगन्नेत्रं धर्मचक्रप्रवर्तकम् ॥१॥ जिनास्यजां सदावन्दे शारदां मम शारदाम् । चतरशीतिलक्षाणां जन्तूनामुपकारिणीम् ॥२॥ गुरुणां चरणी नत्वा प्रणम्याष्टविधार्चनम् । नदीश्वराभिधे द्वीपे द्वापञ्चाशज्जिनालये ॥३॥ आदौ गन्धकुटीपूजां प्रश्चात् सर्व समाचरेत् । यंत्रस्य सिद्धचक्रस्य चतुर्मुखजिनस्य वा ॥४॥ एकैकस्य च दिग्भागे त्रयोदश हि पर्वताः । तत्र प्रत्येकचैत्यस्य पूजां कुर्वे शुभाप्तये ॥५॥