________________
f
श्रीमदाशापरकृतः महाभिषेकः ।
ॐ ह्रीं अनन्तानन्त वीर्येभ्यो नमः घूपं । ॐ ह्रीं अनन्तानन्त सौख्येभ्यो नमः फलं । सामोदैः स्वच्छतोयैरुपहिततुहिनैश्चन्दनै स्वर्गलक्ष्मीलीला रक्षतोषैर्मिलदलिकुसुमैरुद्गमैर्नित्यहृद्यैः ॥ नैवेद्यैर्नव्यजांबूनद मददमकैर्दीपकैः काम्यधूमस्तूपधूपैर्मनोज्ञैगृ हसुरभिफलैः पूजये त्वाऽर्हदीशं ॥३३॥ ॐ ह्रीं अहं नमः परम ब्रह्मणे विनष्टाष्टकर्मणे अर्घ्यं निर्वपामीति स्वाहा । शांतिधारा । पुष्पांजलि: ।
अथ क्षेत्रपाल पूजा ।
अस्मिन् जैनमहामहोत्सवविधाविंद्रादिक्पालक स्थित्यर्थं परितो दिशास्वभिमुखंनिक्षिप्यदर्भासनं । आरोप्यार्घ्यमनर्घ्यमंत्र यजनै र्विघ्नौघविच्छित्तये शक्राद्यैरभिपूज्यते तरुभुवि श्रीक्षेत्रपालाधिपः ॥ १ ॥
4
ॐ ह्रीं क्रों प्रशस्तवर्णं सर्वलक्षणसपूर्ण स्वायुधवाहन चिह्न+ - सपरिवार हे क्षेत्रपाल अत्रागच्छागच्छ सवौषटस्वाहा । ॐ ह्रीं अत्र तिष्ठतिष्ठ ठः ठः स्वाहा । ॐ ह्रीं० अत्रमम संन्निहितो भव भव वषट स्वाहा ।
सन्मंगलायैर्वर भाजनस्थैः संपूर्णतोयादिसमन्वितैश्च । रक्षन्तु चैत्पालयभूमिमागं श्रीक्षेत्रपालं परिपूजयामि ॥२॥ ॐ ह्रीं क्रों क्षेत्रपालाय अर्घ्यं समर्पयामि । शांतिधारा ॥ अथ अद्गद्य' |
निहतचनघातिदोषः, संप्राप्ता तिशयपंचकल्याणः । समवसृतिसभानाथो, जिनेश्वरोददातु मे बोधं ॥