________________
श्रीमदाशाघरकृतः महाभिषेकः। [१५ धृत्वा शेखरपट्टहारपदकं ग्रैवेयकालम्बकं ।
केयूरांगदमध्यबंधुरकटीसूत्रं च मुद्रान्वित । चंचत्कुंडलकर्णपूरममलं पाणिद्वये कंकणं । मञ्जीरं कटकं पदे जिनपतेः श्रीगंधमुद्रांकित ॥ १५ ॥
षोडशाभरण श्वेतसूत्रोवृतान पूर्णकुम्भान सदकभूषितान ॥ संस्थाप्य कोणकोष्टेषु पुष्पाणि प्रक्षिपाम्यहं ॥१६॥ ॐ ह्रीं स्वस्तये कलशं स्थापयामि स्वाहा ।
इति चतु:कलश स्थापनं । ___ॐ ह्रां ह्रीं ह्र ह्रौं ह्रः नमोऽर्हते भगवते श्रीमते पद्म'महापद्म तिगिंछकेशरीपुण्डरीकमहापुण्डरीकगंगासिंधुरोहिद्रोहितास्याहरिद्धरिकांतासीतासीतोदानारोनरकांतासुवर्णकूलारूप्यकलारक्तारक्तोदाक्षीरांभोनिधिशुद्धजलं सुवर्णघट प्रक्षालितपरिपूरितनवरत्नगंधपुष्पाक्षताभ्यचितमामोदकं पवित्रं कुरु कुरु झौं झो वं मं हं सं तं पं द्रां ह्रीं असि आ उ सा नमः स्वाहा । इतिकलशजलशुद्धिः । पुष्प अक्षत चन्दन ले ऊपर मन्त्र बोल कर चारो कलशोंमें क्षेपण करना । .
अभ्यच्यं कलशांस्तोय प्रवाहैश्चन्दनैरह।
अक्षतैः कुसुमैरन्नैर्दीपधूपफलैरपि ॥ १७ ॥ ॐ ह्रीं नेत्राय संवौषट् कलशार्चनं करोमि स्वाहा । कलशार्चनं । अर्घ । पाण्डुकाख्यशिलां मत्वा पीठ मेतन्महीतले । स्थापयामि मिनेन्द्रस्य मज्जनाय महचरं ॥१८॥