SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १७८ ] दि. जैन व्रतोद्यापन मंग्रह । कुर्वतु सुभव्यजनाः सुयज्ञकं तथा जिनेशा वरदा भवन्ति वै ॥१४॥ श्रीखण्डागरुकपूरकाश्मीरैः कुम्कुमादिभिः । चित्रितो मृन्मयताम्रधौतकुम्भो विलेपितः ॥१५॥ स्थापनीयोऽजुनधौतवस्त्रणाच्छादितःपरः । तस्योपरि च संस्थाली स्थापनीया मनोहरा ॥१६।। तस्यां श्रीजिनबिंब हि चतुर्दश जिनेशिनां । चतुर्विंशतिदेवानां बिंबं वा स्थापयेवुधैः ॥१७॥ अथवानन्ततीर्थस्य बिम्बं च स्थापयेन्मुदा । स्थापनीयं तदन चानंतयंत्रण मन्वितं ॥१८॥ यन्त्राभावे सुगन्धेन लेखनीयः शलाकया । यो यन्त्रोऽनंतनाथेन दर्शितो दिव्यभाषया ॥१९॥ यन्त्रोपरि विधातव्यां शुद्धमनन्तमण्डलं । प्रतिष्ठादिविधानेन प्रतिष्ठया मुमुक्षभिः ॥२०॥ यन्त्राद्योऽपि सर्वेषु पदार्था विदुषांवरे । जपनीयं ततो मन्त्र वनस्पति सुपुष्पकैः । २१॥ पञ्चामृतेन संस्नाप्य क्षालनीयो जलैर्वरैः पूर्ववदर्चन कृत्वा रात्री जागरणं चरेत् ॥२२॥ चतुर्दश्यां विधातव्यं चतुगहारवर्जन । महासंस्थापन कृत्वा पूजन च त्रिकालजं ॥२३।। पौर्णीमायां प्रभाते च पूजयित्वा जिनेश्वरान । पोषधं पारयित्वा च क्षेमं कृत्वा परस्परं ॥२४॥
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy