________________
१७६ दि० जेन व्रतोद्यापन संग्रह । गच्छे श्री शारदायाः सदतिवलगणे पावने मूलसंधे। भव्यो दाक्षिण्यभूषो जनिकुमुदविधोः धर्मचन्दो मुनीन्द्रः ॥ तत्पट्टाभोजसूर्यो जयति भविसुखं धर्मभूषो गणेद्रः । तत्कृत्या शम्भव यजयन्तु शिवकर श्रीव्रतोद्यापनं च ॥
_ पुष्पांजलि क्षिपेत् । इति श्री रत्नत्रयव्रतोद्यापनम् ।
अथ अनंत व्रतोद्यापनम् । श्रीनाभिसनुचरणाजयुगं
प्रणम्य देवेन्द्रनागेन्द्रनरेन्द्रपूजित। वक्त्रादनन्तजिनपात् प्रविनिर्गतं
यदुधापनं बृहदनन्ततपोविधानं । सम्यक्त्वशुद्धिपरितं हृदयं नरो यो, भक्तया स्वनन्ततपसा परिधार्य नित्यं । शृण्वन्तु तस्य तपसो विधिमाहितस्य,
यस्यान्नराः सुखकरं फलमाप्नुवन्ति ।। मासे भाद्रपद शुक्ले, पक्षे च दशमी तिथौ । एकमुक्तिविधानेन भुक्त्वा गत्वा जिनालयम् ॥ जलगन्धादिभिर्द्र व्योः पूजयित्वा जिनाधिपान् । त्रिशुद्धिभक्तिभावेन स्तुत्वा नत्वा पुनः पुनः ॥४॥