________________
१७४ ] दि. जैन व्रतोद्यापन संग्रह । जाप्य मंत्र-ॐ ह्रीं असि आ उ सा सम्यग्दर्शनज्ञानचारि
त्रेभ्यो नमः ।
अथ जयमाला। संत्येवात्र महाव्रतानि सततं गुप्तित्रयं मुक्तिदं । पंचेव समितिव्रतानि सुहित कुति भव्यात्मनां ॥ तस्मात्पुण्यचरित्ररत्ननिकर सेव्यं मुदा शंकरं ।। मुक्तर्गिमिदं भवाब्धिशरणं भव्यौरहं संस्तुवे ॥१॥
अहिंसाव्रतं विश्वसत्वानुकंपं, यजेऽनन्तशर्माकरं निःप्रकम्प । असत्याद्विदूरं ज्ञानविज्ञानमूलं, सुसत्यं स्तुवे सर्वकर्मा'नुकूल ॥२॥ अदत्तातिगं कृत्स्नलोभादिदूरं, महांतं महासव्रतं धर्मपूर। परं ब्रह्मचर्यं जगद्ध हेतु, वर चर्चयेऽनन्तकर्माब्धिसेतु ॥३।। व्रतं धर्म शर्माकरं त्यक्तसंगं, खलैर्लोभतृष्णादिसर्वैरमगं मनोवाक्यकायत्रयं गुप्तिगुप्तं यजाम्यत्र हिंसादिपापैरमोष्ट ॥४॥ सुवाचां सुभाषैषणां यत्र भूतां किलादाननिक्षेपणां धर्मसुतां । प्रतिष्ठापनां चाचयेऽहं पवित्रां, समित्याख्यकावृत्तधात्रि विचित्रां ॥५।। परं पावन विश्वभव्यैकबन्धु, महादृष्टि चिवृत्तरत्नादि सिन्धु। जगत्पूज्यमानदशर्मादिहेतु, व्यथानिष्टरोगादि दुःखादिसेतु
१-वृत्ता
।