________________
१६८ ]
दि. जैन प्रतोद्यापन संग्रह । चारित्ररत्नत्रययन्त्रमन्त्र,
रौप्यं तथा हेममयं च ताम्र ॥ ॐ ह्रीं त्रयोदशविधसम्यक्चारित्र अत्रावतरावतर संवौषट् । स्थापनम् । सन्निधिकरणम् । गंगादितीर्थभवजीवनधारया च,
सत्सारया सुखदपुण्यसुवानिवृद्धौं । स्वात्मस्थशुद्धमपर व्यवहाररूपं,
चारित्ररत्नममलं परिपूजयामि ।। ॐ ह्रीं त्रयोदशविधसम्यकचारित्राय जलं । भीचन्दनैर्विशदकुम्कुमहेमवर्णैः,
कृष्णागुरुद्रवयुतनसारमिष्टः । स्वात्मस्थ०॥ ॐ ह्रीं त्रयोदशविध० चन्दनं । स्थूलैः सुगन्धकलमाक्षतचारुपुजैः, हीरोज्वलैः सुखकरेरिव चन्द्रचणैः । स्वात्मस्थ०॥ ॐ ह्रीं त्रयोदशविध० अक्षतं० । हेमाभचम्पकवरांवुजकेतकीभिः. सत्पारिजातकचयैबैकुलादिपुष्पैः । स्वात्मस्थ० ॥ ॐ ह्रीं त्रयोदशविध० पुष्प । शान्योदनैः शुभतरघुतपूरयुक्तः शुद्धः सुधामधुरमोदकपायसान्नैः । स्वात्मस्थ०॥ ही त्रयोदशविष० नैवेद्य ।