________________
१६४ ]
दि० जैनव्रतोद्यापन संग्रह |
प्राणवादमिदं पूर्व चिकित्सादिप्ररूपणं । वन्दे धर्मफलं यत्र, यजे तोयादिभिः श्रुतम् ॥ ॐ ह्रीं प्राणानुवादपूर्वाय जला० ||३७|| नृत्यवाद्यक्रियागतं प्रोक्तं च यत्र पावनम् । क्रियाविशालपूर्व तत् यजे तोयादिभिः श्रुतम् ॥ ॐ ह्रीं क्रियाविशालपूर्वाय जला० ||३४|| त्रैलोक्यरचना यत्र प्रोक्ता श्रीजिननायकैः । त्रैलोक्यबिन्दु सारं तत्, यजे तोयादिभिः श्रुतम् ॥ ॐ ह्रीं त्रैलोक्यबिन्दुसारपूर्वाय जला० ||३९|| अङ्गबाह्य श्रुतं वन्दे यत्करोत्यघनिर्जरां । चतुर्दशविधं तच्च यजे तोयादिभिः श्रुतम् ॥ ॐ ह्रीं अङ्गबाह्यचतुदर्शविधश्रुताय जला० ॥४०॥ वर्णनं व्यञ्जनानां च श्रुतज्ञानं सुलक्षणं । स्फुरदर्थं जलाद्यैश्च, तदंगं पूजयाम्यहम् ॥ ॐ ह्रीं व्यञ्जनोजिताय जला० ||४१ ||
अर्थैर्यत्र समग्रं च होनाधिकार्थवर्जित ॥ विशदार्थ जलाद्यैश्च तदंगं पूजयाम्यहम् ॥ ॐ ह्रीं अर्थसमग्राय जला० ||४२ || शब्दार्थः पूर्णांगं, शब्दार्थो भयसंज्ञकं । निर्दोषार्थ जलाद्यश्व, तदंग, पूजयाम्यहम् ॥
ॐ ह्रीं शब्दार्थोभयपूर्णाय जला ॥४३॥