________________
दि. अन व्रतोचापन संग्रह । चन्द्रप्रज्ञप्तिकं नाम श्रुतज्ञान जिनोदितं । वर्णनं तत्र चन्द्रस्य, यजे तोयादिभि श्रुतं ।। ॐ ह्रीं चन्द्रप्रज्ञप्त्यै जलादिकं ॥१६॥ सूर्यप्रज्ञप्तिस्थज्ञान सूर्यादिग्रहणादिकं। कथ्यते यत्र सर्वः यजे तोयादिभिः श्रुतं ।। ॐ ह्रीं सूर्यप्रज्ञप्त्यै जला० ॥१७॥ जम्बूद्वीपकुलाद्रीणां वर्णन कथिता यतः । तत्प्रज्ञप्ति श्रुतपुण्य, यजे तोयादिभि श्रुतं ।। ॐ ह्रीं जम्बूद्वीपप्रज्ञप्त्यै जला० ॥१८॥ द्वीपसागरचैत्यानां वर्णन यत्र कथ्यते । तत्प्रज्ञप्ति भव्यार्थे यजे तोयादिभिः श्रुतं ॥ ॐ ह्रीं द्वीपसागरप्रज्ञप्त्यै जला० ॥१९॥ व्याख्याप्रज्ञप्तिकाख्यं यत् जीवाजीवादिवर्णन । - क्रियते यत्र तबोध, यजे तोयादिभिः श्रुतं ॥ ॐ ह्रीं व्याख्याप्रज्ञप्तिश्रु ताय जला० ॥२०॥ जलादिस्तभनं यत्र चोक्तं मन्त्रादिभैषजैः। जलादिचूलिकाख्यं तत् यजे तोयादिभिः श्रुतं ॥ ॐ ह्रीं जलगतचूलिकायै जला० ॥२१॥ स्थलादिचूलिकाख्यां तत् मेरुकुलाद्रिभभृतां । व्याख्यान क्रियते या, यजे तोयादिभिः श्रुत। ॐ ह्रीं स्थलगतचूलिकायै जला० ॥२२॥