________________
दि. जैन व्रतोद्यापन संग्रह । [१४९
श्री रत्नत्रय व्रत कथा । श्रीमनसन्मतिं नत्वा गौतम च गणाधिपं । प्रच्छकः श्रेणिको राजा विनयान्नतमस्तकः ॥१॥ केनेदं विहितं नाथ रत्नत्रयमिदं व्रत । कीदृकफलं च तेनाप्त तद्वत कथय प्रभो ॥ २॥ अथाह गौतमस्वामी दिव्यगंभीरया गिरा । भव्य पृष्ट त्वया राजन् श्रुणु त्वं कथयामि ते ॥ ३॥ जंबूवृक्षांकिते जंबूद्वीपे द्वीपेषु मध्यगे । लक्षयोजनविस्तीर्णे क्षेत्रं भारत संज्ञकम् ॥ ४ ॥ तस्यास्ति पूर्वदिग्भागे द्वितीयं क्षेत्रमुत्तमम् । नाम्ना पूर्व विदेह च धर्मिजनैः समाकुलम् ॥ ५ ॥ पुष्कलावतिप्रमुखानेकदेशसमन्वित । पवित्र क्षेत्रमत्यन्तम् पुरपत्तनशोभितम् ।। ६॥ राजा बंश्रवणस्तत्र सम्यक्त्वालकृतः सुधीः । तेनेद च कृत पूर्व व्रत रत्नत्रयाभिध ॥७॥ तत्कलेनैव सम्बद्धं तीर्थकृतकुलमुत्तमम् । ततः समाधिना मृत्वाहमिंद्रोऽभूतो भृपतिः ।। ८ ।। तस्माच्युत्वायुषांते सः बंगदेशे मनोहरे । मिथुलाक्षापूरिरम्या तस्यां कुम्भाभिधो नृपः ।। ९ ॥ राज्ञी प्रभावती दक्षा तद्गर्भे सोऽवतीर्णवान् । रत्नत्रयप्रभावेन मल्लिनाथो जिनेश्वरः ॥ १०॥ सः जातः कर्मनियोगः पंचकल्याणक नायकः । इति मत्वा बुधैः कार्य रत्नत्रयमिद व्रत ॥ ११ ॥