________________
१२२ ] दि० जैन व्रतोद्यापन मंग्रह ।
षण्मासे पारणं यो वै करोति कर्महानये । षण्मासे तपसायुक्तमष्टद्रव्यौः समर्च ये ॥ ॐ ह्रीं षण्मासतपसायुक्तमुनये जला० ॥६॥ वर्षोपवाससंयुक्तो बाहुबलियतीश्वरः । वर्षोपवाससंयुक्तमष्टद्रव्योः समर्च ये ॥ ॐ ह्रीं वर्षोपवासतपसायुक्तमुनये जलादिकं ॥७॥ दुःखहानिकर पुसां तपो वृद्धि महाबलः। स्वाहानि तपसा युक्तमष्टद्रव्योः समचये ॥ ॐ ह्रीं दुःखहरणतपसायुक्तमुनये जलादिकं ॥६ सदा यो लभ्यते सार श्रुतज्ञानाभिधस्तपः तस्य भावनया युक्तमष्टद्रव्योः समच ये ॥ ॐ ह्रीं श्रुतज्ञानतपोभावनायुक्तमुनये जलादिकं० ॥९॥ सावधानतपो यो वै व्रतानाचरते खलु । द्विषद्भदतपो युक्तमष्टद्रव्यैः समर्च ये ।। ॐ ह्रीं द्वादशभेदतपोभावनायुक्तमुनये जलादिकं ॥१०॥ ग्रासैकादितपोनाम कुरुते यो जितेन्द्रियः ।। एकग्रासतपो युक्तमष्टद्रव्यैः समर्चये ॥ ॐ ह्रीं एकग्रासतपोभावनायुक्तमुनये जलादिकं ॥११॥ मानसे चिंतन यो हि करोति तपसोद्भवं । मनः चिंतनसंयुक्तमष्टद्रव्योः समच ये ।। ॐ ह्रीं मनचिंतिततपसायुक्तमुनये जलादिकं ॥१२॥