________________
दि. जैन ब्रतोद्यापन संग्रह ।
• अथ शक्तितस्त्याग भावना। चतुर्विधजिनेद्रस्योद्भुतां पापमलापहां । स्वर्गमोक्षवशीभूतां स्थापयामि यथागर्म ॥
ॐ ह्रीं दानभावनात्रावतर २ संवौषट् । अत्र तिष्ठ तिष्ठ ठः ठः स्थापनं । अत्र मम सन्निहितो भव भव वषट् ।
भोगभूमिभव सौख्यं या ददाति सुभावना । तदोपदेशनं साधु यजे पुष्पवराक्षतैः ॥ ॐ ह्रीं आहारदानभावनोपदेशकायमुनये जलादिकं ॥१॥ श्री जिनेन्द्रमुखोत्पन्नं ज्ञान यो मुनि भाषते । तस्य भावनया रक्तं यजे पुष्पवराक्षतैः ।। ॐ ह्रीं ज्ञानदानभावनारतमुनये जला० ॥२॥
रोगशांतिकरं शुद्ध भेषजं यो ददातिवै । तस्य० ॥ ॐ ह्रीं सर्वोषधिद्धियुक्तमुनये जला० ॥३॥ स्थावरजंगमजीवेषु दयादानं ददाति यः। करूणामृतसंतृप्त यजे पुष्पवराक्षतैः ॥ ४ ॥
ॐ ह्रीं अभयदानभावनारतमुनये जला० ॥४॥ . दानेन ज्ञानं च यशस्त्रिलोके,
दानेन सौख्यं भवनोद्भवं च ।। दानेन नाभेय जिनोत्तमोऽभू,
तस्माद्यजे दानमनल्पपुण्योः ।। ॐ ह्रीं दानभावनाय महा।