________________
१०२ ]
दि० जैन व्रतोद्यापन संग्रह |
॥
येऽत्रसंजाता जैनेन्द्राः क्षेत्रे ऐरावतावनी | दर्शन' यस्य तेषां हि पूजये तं शुभार्चनैः || ॐ ह्रीं ऐरावतक्षेत्रोद्भवदर्शन० जलादिकं ॥ ८७॥ प्रथमे भारते क्षेत्रे कर्म नष्टा जिनोत्तमः । मानसे दर्शन येषां पूजये तं शुभार्चनैः ॥ ॐ ह्रीं घातकी खण्ड प्रथमभरतोद्भवजिनदर्शन • जलादिकं ॥ ८८ ॥ भारतेद्वितीय क्षेत्रे ये सन्ति जिनपुंगवाः । यस्य तेषां हृदि ध्यान पूजये तं शुभार्चनैः ॐ ह्रीं धातकीखण्डद्वितीयभरतोद्भवजिनदर्शन • जलादिकं ॥ ८९ ॥ धातक्या च जिनान् सर्वान् विदेहे पूर्वपश्चिमे । विभावयति सम्यक्त पूजये तं शुभार्चनैः ॥ ॐ ह्रीं घातकीविदेहजिनप्रणीतदर्शन० जलादिकं ॥९०॥ धातक्यैरावते क्षेत्रे प्रथमे जिनपुंगवान् । यो धारयति सम्यक्तं पूजये तं शुभाचनैः ॥ ॐ ह्रीं धातक्यैरावतक्षेत्र प्रणीतजिनदर्शन • जलादिकं ॥ ९१ ॥ धातस्यैरावतक्षेत्रे द्वितीये जिनपुंगवान । यो धारयति सम्यक्तं पूजये त शुभार्चनैः ॥ ॐ ह्रीं घातक्यैरावतद्वितीयजिनप्रणीतदर्शन० जलादिकं ॥ ९२ ॥ भारते पुष्करे जाता पूर्वमेरुजिनाश्च ये । तेषां सद्दर्शन यस्य पूजये तं शुभार्चनैः ॥
ॐ ह्रीं पुष्करपूर्वेभ रते जिनप्रणीतदर्शन० जलादिकं ॥९३॥