SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०० ] दि० जैन व्रतोद्यापन संग्रह | रात्रिभोजनयोगेन हिंसाकर्म प्रजायते । निशिभोजनसंत्यागी पूजये तं शुभार्चनैः ॥ ॐ ह्रींरात्रिभोजनविरतिदर्शन० जलादिकं ॥७३|| दिवे हि मिथुनात्पापं जायते सर्वदेहिनां । तत्पापाद्विरताह्मः पूजये तं शुभाचनैः ॥ ॐ ह्रीं दिवामैथुनत्यागप्रतिमायुक्तदर्शन० जलादिकं ||१४|| मनोवाक्कायसंशुद्धया मैथुनं त्यजति व्रती । ब्रह्मचारी महापूत पूजये तं शुभार्चनैः ॥ ॐ ह्रीं ब्रह्मचर्यप्रतिमायुक्तदर्शन • जलादिकं ।।७५।। सर्वारम्भपरित्यागः सर्वपापनिवारकः 1 प्रारम्भं न कहोत्येव पूजये तं शुभार्चनैः ॥ ॐ ह्रीं आरम्भत्यागप्रतिमायुक्तदर्शन० जलादिकं ॥ ७६ ॥ अन्तबाह्यद्विधा संगान् यो दूरी कुरुते व्रती । तद्दोषाद्विरतः शङ्खं पूजये तं शुभार्चनैः ॥ ॐ ह्रीं परिग्रहविरतिप्रतिमायुक्तदर्शन० जलादिकं० ॥७७॥ | कस्यापि वस्तु न चित्ते न कस्येत्यनुमोदनं । दशमी प्रतिमा युक्तः पूजये तं शुभाः ॥ ॐ ह्रीं अनुमतित्यागप्रतिमायुक्तदर्शन० जलादिकं ॥७८॥ प्रासुकाहार संग्राही चोद्दिष्टाहारवर्जितः । सर्वदोषविनिमुक्तः पूजये तं शुभार्चनैः ॥ ॐ ह्रीं उद्दिष्टाहाररहितदर्शन० जलादिकं ॥ ७९॥
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy