SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ दि० जैन व्रतोद्यापन संग्रह । [ 33 पिंडस्थध्यानयोगेन रूपस्थेन विशेषतः । करोति स्वात्मनो ध्यानं पूजये तं शुभार्चनैः ॥ ॐ ह्रीं स्वात्मध्यानसंयुक्तदर्शन० जलादिकं ॥ ६६ ॥ त्रसस्थावरजीवेषु कृपाक्रांतमनो वचः । रागद्वेषमदाद्धीनः पूजये तं शुभार्चनैः ॥ ॐ ह्रीं समताभावसंयुक्तदर्शन० जलादिकं ||६७ || भव्य सत्त्वहितोदेशी दर्शनप्रतिमावरा | विस्तारयति यो भव्यः पूजये तम् शुभार्चनैः ॥ ॐ ह्रीं दर्शनप्रतिमायुक्तदर्शन० जलादिकं ॥६८॥ अव्रतीषु जनेष्वेव दोषाः सन्ति विशेषतः । व्रतं करोति यो धीरः पूजये तं शुभाचनैः ॥ ॐ ह्रीं व्रतप्रतिमायुक्तदर्शन० जलादिकं ॥६९॥ पर्वते निर्जने स्थाने चारण्ये पितृभूमिषु । सामायिकं व्रताशक्तं पूजये तं शुभार्चनैः ॥ ॐ ह्रीं सामायिकयुक्तदर्शन० जलादिकं ||७०ll उपवासरतो धीरो गतशोको विचक्षणः । प्रोषधव्रतमाधत्ते पूजये तं शुभार्चनैः ॥ ॐ ह्रीं प्रोषधव्रतप्रतिमायुक्तदर्शन० जलादिकं ॥ ७१ ॥ सचित्तवस्तु संत्यक्त्वा सचित्तप्रतिमा मता । प्रासुके वस्तुनि बोधः पूजये तं शुभार्चनैः ॥ ॐ ह्रीं सचित्तविरतियुक्तदर्शन० जलादिक ॥७२॥
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy