________________
९६ ] दि० जैन व्रतोद्यापन संग्रह ।
त्रसजीवशतैर्युक्त उदम्बरफलवर्जन । कृत जीवदयादक्षः पूजये तम् शुभार्चनैः ॥ ॐ ह्रीं उदम्बरफलविरतिदर्शन० जलादिकं ॥४४॥ अनेकांगिसमाकीण नीचयोग्य कठम्बरं । तस्याहारविनिमुक्तं पूजये तम् शुभार्चनैः ।। ॐ ह्रीं कठुम्बरफलविरतिदर्शन० जलादिकं ॥४५॥ न्याग्रोधवृक्षसम्भूतम् फलं जन्तुविमिश्रितं । यत्फले यो विराकांक्षिः पूजये तम् शुभार्चनैः ।। ॐ ह्रीं वटफलविरतिदर्शन• जलादिकं ॥४६॥ काकयोग्यं कलाहीन पीप्पलादिफलोज्झन । कृत येन दया बुद्धया पूजये तम् शुभार्चनैः ॥ ॐ ह्रीं पिप्फलीफलविरतीदर्शन० जलादिकं ॥४७॥ सर्वजीवदयाधारो निष्कषायो दिगम्बरः । पिप्पलीफलसंत्यागी पूजये तम् शुभार्चनैः ॥ ॐ ह्रीं पिप्पलीफलसंविरतिदर्शन० जलादिकं ॥४८॥ त्रसस्थावरपापेभ्यो विरतः सर्वदा मनः । तस्य चितम् द्रवीभूतम् पूजये तम् शुभाचं नैः ।। ॐ ह्रीं हिंसाविरतिदर्शन० जलादिकं ॥४९॥ मनसा वचसा चैव सत्यं वदति सर्वदा । भाषासमितिसम्पन्नः पूजये तम् शुभार्चनैः ।। ॐ ह्रीं सत्यसंयुक्तदर्शन० जलादिकं ॥५०॥