________________
धर्मरत्नप्रकरणम्
॥ ७२ ॥
नीयं पुनस्तं ' अरक्तद्विष्टः ' रागद्वेषरहितः 'उपेक्षते ' अवधीरयति “ उपेक्षा निर्गुणेषु " इति वाक्यमनुसृत्य । इति गाथार्थः ॥ १२४ ॥ गुणानुरागस्यैव फलमाह -
उत्तमगुणा राया काला इदोसओ अपत्तावि । गुणसंपया परत्थवि न दुलहा होइ भव्वाणं ॥ १२५ ॥
उत्तमा उत्कृष्टाः, गुणा, ज्ञानादयः, तेष्वनुरागः प्रीतिप्रकर्षः, तस्माद्धेतोः, कालो दुःषमारूपः, आदिशब्दात्संहननसहायाभावौ त एव दोषा दूषणानि, विघ्नकारित्वात्, ततः 'अप्राप्तापि ' आस्तां तावत्प्राप्तेस्यपेरर्थः । 'गुणसंपत्' परिपूर्णधर्मसाधनसामग्री वर्त्तमानजन्मनीति गम्यते । 'परत्रेऽपि ' भाविभवे, अपिः संभावने संभाव्यते । एतन्नैव 'दुर्लभा' दुरापा भवति 'भव्यानां ' मुक्तिगमनयोग्यानाम् । इति गाथार्थः ॥ १२५ ॥
उक्तं गुणरागरूपं पष्ठं भावसाधुलिङ्ग, अधुना गुर्वाज्ञाराधनरूपं सप्तममाहगुरुपसेवानिरओ गुरु आणाराहणंमि तलिच्छो । चरणभरधरणसत्तो होइ जई नन्नहा नियमा ॥ १२६ ॥
अत्र कश्चिदाह – पूर्वाचार्यैश्चारित्रिणो लिङ्गषट्कमेवोक्तम् । यतोऽवाचि - " मग्गणुसारी सड्ढो पनवणिज्जो कियाबरो चेव । गुणरागी सकारंभसंगओ तह य चारिती ॥ १ ॥ " तत्कुत एतत्सप्तमं लिङ्गम् ? इत्युच्यते, भणितमेवोपदेशपदशास्त्रे लिङ्गभणनानन्तरम् - " एयं च अस्थि लक्खणमिमस्स नोसेसमेव धन्नस्स । तह गुरुआणा संपाडणं च गमगं इहं लिङ्गम् ॥ १ ॥ " इत्यलं विस्तरेण । प्रस्तुतव्याख्यानमुच्यते - गुरव उक्तस्वरूपास्तेषां पदानि चरणास्तेषां सेवा सम्यगाराधनं, न पुनरासन्नवर्त्तित्वमात्रम् । यतः सूत्रम् — “गुरुमूलेवि वसंता अणुकूला जे न हुंति उ गुरूणं । एएसि तु पयाण दूर दूरेण ते हुति ॥ १ ॥ " तस्याँ
स्वोपज्ञवृत्तियुक्तम्
।। ७२ ।।