SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ महामोहता चास्य गुराववज्ञाबुद्धधात्मानमुनमयितुं प्रवृत्तत्वाद्द्रष्टव्या । गुर्वाज्ञया शासनोन तिकारिणो लब्धिख्यातिनिरपेक्षस्य साधोरधिकतर्पःकर्मातापनादिकरणं च वीर्याचाराराधनरूपत्वाद्गुणकरमेव । इति गाथार्थः ।। ११९ ।। उक्तं शक्यानुष्ठानारम्भरूपं पञ्चमं भावसाधुलिङ्गम् । अधुना षष्ठं गुणरागमाहनाय गुणे रागो सुद्धचरितस्स नियमओ पवरो । परिहरइ तओ दोसो गुणगणमालिन्नसंजणणे ॥१२०॥ 'जायते ' संपद्यते ' गुणेषु' ज्ञानादिषु मृलोत्तरगुणेषु वा 'रामः ' प्रतिबन्धः 'शुद्धचारित्रस्य निष्कलङ्कसंयमस्य 'नियमतः ' अवश्यंभावेन ' प्रवरः ' प्रधानो निर्मिथ्य इति भावः । ' परिहरति ' वर्जपति : ततः ' तस्माद्गुणानुरागात् 'दोषान् ' दुष्ट. व्यापारान् । किंविशिष्टान् ? 'गुणगणमालिन्यसंजनकान् ' ज्ञानादीनामशुद्धिहेतून् भावसाधुः । इति गाथार्थः ।। १२० ।। गुणानुरागस्यैव लिङ्गमाह 4 गुणले संपि पसंस गुरुगुणबुद्धीए परगयं एसो । दोसलवेणवि निययं गुणनिवहं निग्गुणं गणई ।। १२१ ।। गुणलेशम पि' आस्तां महीयांसं गुणमित्यपेरर्थः । ' प्रशंसति ' श्लाघते ' परगतं ' अन्यसक्तम् ' एषः ' भावसाधुरुत्तमप्रकृतित्वान्महतोऽपि दोषानुत्सृज्याल्पमपि परगतं गुणं पश्यति, कुथितकृष्णसारमेयशरीरे सितदन्तपति दामोदरवदिति भावः । परिभावयति च कालंमि अणाईए अणाइदोसेहिवासिए जीवे । जं पावियह गुणोवि हु तं पन्नेज्जा महच्छरियं ॥ १ ॥ " तथा 'दोषलवेनापि ' अल्पप्रमादस्खलितेनापि 'निजकं ' आत्मीयं ' गुणनिवहं ' सदनुष्ठानकलापं 'निर्गुण' असारं 'गणयति' कल्पयति । Not
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy