________________
अध्याय 6
क्रियैकमूलं भवमूलमुल्वणं क्रियामयेन क्रिययैव निघ्नता। क्रियाकलापः सकलः किल त्वया समुच्छलच्छीलभरेण शीलितः॥1॥
अमन्दनिर्वेदपरेण चेतसा समग्रभोगान् प्रविहाय निस्पृहः ।
तपो नले जुह्वदिह स्वजीवित बभौ भवभ्रंशकुतूहली भवान् ।। ।।
भवस्य पन्थानमनादिवाहितं विहाय सद्यः शिवधर्म थाहयन्
विभो पुरावृत्त्य विदूरमन्तरं कथं च नाध्यानमषातवानसि ।।
अधृष्य धैर्य विहरन्तमेककं महीयसि ब्रह्मपथे निराकुलम्।
अधर्षयनेव भवन्त मुद्धता मनागपि क्रूरकषायदस्यवः ।। तपोभिरध्यात्मविशुद्धिवर्द्धनैः प्रसङ्गय कर्माणि भरेण पावयन्।