________________
3]
हियते हि परैर्विषयी स्वमत: कुरूत: विषयं विषयी। सहतो विषयैर्विषयस्तु भवेदहतो विषयी न पुनर्विषयः ।।20 ।।
दुशि बोध सुनिश्चलवृत्तीमयो भवबीजहरस्तव शक्तिभरः । न विवित्कमतिः क्रियया रमते क्रिययोपरमत्यपथादथ च 1121।। क्रिययेरितपुद्गलकर्ममलश्चिनिपाकमलकम्प मुपैति पुमान। परिपक्वचित स्त्वपुनर्भवता भवबीजहठोद्धरणा नियतम् ॥22 ।।
यदि बोधमबोधमलालुलितं स्फुटबोधत यैव सदोद्वहते। जिन कर्तृतया कुलितः प्रपतस्तिमिवन्न विवर्तमुपैति तदा ॥23॥
तव मङ्गममेव वदन्ति सुखं जिनं दुःखमयं भवता विरहः। सुखिनः खलु ते कृतितः सततं सतनं जिन येष्वसि सलिहितः ।।24।।
कलयन्ति भवन्तमनन्तकलं सकलं सकलाः किल केवलिनः । तब देव चिदचललग्नमपि ग्लपयन्ति कषायमलानि न माम्॥25 ।।