________________
[31
य एवास्तमुपैषि त्वं स एवोदीयते स्वयम्। सएव ध्रुवतां धत्से य एवाऽस्तमितोदितः ॥20॥
अभावां नयन् भावमभावं भावतां नयन्। भावएव भवन् भासि तावुभौ परिवर्तयन् ॥21।।
हेतुरेव समग्रोऽसि समग्रो हेतुमानसि। एकोऽपि त्वमनाद्यन्तो यथा पूर्व यथोत्तरम्।।22 ॥
न कार्य कारणं नैव त्वमेव प्रतिभाससे। अखण्ड पिण्डितकात्मा चिदेकरसनिर्भरः।।2३ ॥
भृतोऽपि रिक्तामेषि रिक्तोऽपि परिपूर्यसे । पूर्णोऽपि रिच्यते किञ्चित् किञ्चिदिक्तोऽपि वर्द्धसे ।।24।।
विज्ञानधनविन्यस्तनित्योधुक्तात्मनो मम्। स्फुरन्त्वश्रान्तमार्दास्तवामूरनु भूतयः ।।25 ॥छ॥12॥